गणेश जी का पूजन | आरती | मंत्र
भगवान श्री गणेश जी का पूजन के लिये स्नान करने के पश्चात शुद्ध वस्त्र धारण करके पुरा पूजा का सामान साथ मे लेकर पूर्व दिशा की और मुख करके उनका लाल आसन पर बेठ कर पहले पवित्र हो जाये इसके बाद तीन बार निम्न मंत्र बोलकर आचमन करे
त्रिराचम्य जलमादाय –
ह्रीं (ॐ) केशवाय नमः
ह्रीं (ॐ) नारायणाय नमः
ह्रीं (ॐ) माधवाय नमः
आचमन के पश्चात अपने हाथ को निचे दिए गए मंत्र बोलकर धो ले ह्रीं (ॐ)गोविंदाय नमः इति हस्तं प्रक्षाल्य.
श्री गणेश जी का पूजन
जलमादाय – अस्मिन कर्मणि सर्व शान्ति प्राप्ति अर्थम् सर्व विघ्नोपशान्तये शान्ति पाठ श्रवण अहं करिष्ये
हाथ में पुष्प और अक्षत (चावल)लेकर शांति पाठ करे
आदौ शान्तिसुक्तमार्भेत या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्॥किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि। किं चाहवेषु चरितानि तवाद्भूतानि सर्वेषु देव्यसुरदेवगणादिकेषु꠱ हेतुः समस्तजगतां त्रिगुणापि दॊषैर्न ज्ञायसे हरिहरादिभिरप्यपारा।सर्वाश्रयाखिलमिदं जगदंशभूत मव्याकृता हि परमा प्रकृतिस्त्वमाद्या꠱यस्याः समस्तसुरता समुदीरणेन तृप्तिंप्रयाति सकलेषु मखेषु देवि।स्वाहासि वै पितृगणस्य च तृप्तिहेतु रुच्चार्यसे त्वमेत एव जनैः स्वधा च꠱अक्षत और पुष्प भगवान के चरणों में रखे
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
सभी देवो को नमस्कार करना है.
अथ नमस्कारः
ह्री श्रीमन्महागणाधिपतये नमः
ह्री गुरुभ्यो नमः।
ह्री परमगुरुभ्यो नमः।
ह्री परमेष्ठी गुरुभ्यो नमः।
ह्री परात्पत गुरुभ्यो नमः।
ह्री लक्ष्मी नारायणाभ्यां नमः।
ह्रीं उमामहेश्वराभ्यां नमः।
ह्रीं वाणीहिरण्यगर्भाभ्यां नमः।
ह्रीं शचीपुरन्दराभ्यां नमः।
ह्रीं मातृपितृचरण कमलेभ्यो नमः।
ह्रीं कुलदेवताभ्यो नमः।
ह्रीं इष्ट देवताभ्यो नमः।
ह्रीं ग्रामदेवताभ्यो नमः।
ह्रीं स्थानदेवताभ्यो नमः।
ह्रीं वास्तुदेवताभ्यो नमः।
ह्रीं राधाकृष्णाभ्यां नमः।
ह्रीं रुक्षमणि वासुदेवाभ्यां नमः।
ह्रीं सितारामाभ्यां नमः।
ह्रीं सर्वेभ्यो देवेभ्यो नमो नमः।
ह्रीं सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः।
एतत्कर्मप्रधानदेवताभ्यो नमः।
यजमान वदेत
ह्रीं पुण्यं पुण्याहं दिर्घमायुरस्त्विति भवन्तो ब्रुवन्तु
ब्राह्मणाः
ह्रीं पुण्यं पुण्याहं दिर्घमायुरस्तु
सुमुखश्च-एकदंतश्च कपिलो गज कर्णक:
लम्बोदरश्व विकटो विघ्ननाशो विनायक:
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन:
द्वादशैतानि नामानि य: पठेच्छर्णुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
संग्रामें संकटे चैव विघ्नस्तस्य न जायते।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः |
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ||
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ꠱
वक्रतुण्डमहाकाय सुर्यकोटि समप्रभ ।निर्विघ्नं कुरुमेदेव सर्वकार्यषु सर्वदा꠱
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोSस्तु ते
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव꠱
लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।
सर्वेष्वारंभकार्येषु त्रयस्त्रीभुवनेश्वराः।
देवाः दिशंतु नः सिद्धिं ब्रहमेशानजनार्दनाः꠱
विनायकं गुरुं भानुं ब्रह्मविष्णु महेश्वरान् ।
सरस्वतीम् प्राणोम्यादौ सर्वकार्यार्थ सिद्धये ꠱
अथ संकल्पाः
तिथिर्विष्णुः तथा वारो नक्षत्र विष्णु रेवच।
योगश्च करणं चैव सर्वं विष्णुमयं जगत् ꠱
दक्षिणहस्तेन साक्षत जल मादाय ꠶
विष्णुः विष्णुः विष्णुः अद्य श्रीमद् भगवतो महापुरुषस्य नारायणस्य सुखशयनास्पद श्री शेष महा फ़णिन्द्र सहस्त्र मण्डलो द्धृतायां
वसुन्धरायां श्रीमद् विरंचिद्वितियपरार्धे
सप्तकल्पानां मध्ये श्री वैवस्तमन्वन्तरे अष्टाविंशतितमे कलयुगे कलि प्रथम चरणे भारतवर्षे जंबुद्विपे नैमिषारण्ये कुमारिकानाम्निक्षेत्रे आर्या वर्तान्तर्गते ब्रह्मा वर्तैकदेशे
श्रीमद् रेवायाः साब्रःमत्याःअन्तराले श्रीविष्णो र्बौद्धावतारे
विक्रमादितस्य सिंहासना रूढात् समयातित गताब्दा: वैक्रमाब्दे_____नाम्ने संवत्सरे शालिवाहन कृत शाके _________ नाम्ने शालिवाहनकृत शाके रवि द्वय अयनानाम मध्ये________अवलंबिते गगन चक्र चुडामाणौ ____ऋतौ सन महामांगल्य फ़ल प्रद मासोत्तमे शुभकारिक पुण्य पवित्र ________मासे ______पक्षे ________तिथौ _______वासरे ________परं ________नक्षत्रे __________ योगे _________करणे _________ राशि स्थिते रात्रिमणौ, _______राशि स्थिते नभदीप् एवं शेषेषु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रह गुण विशेषेण
विशिष्टायां सुभ पुण्य तिथौ
गोत्रोच्चाराः
मम आत्मनाः श्रुति स्मृति वेद पुराण उक्त पुण्य फ़ल प्राप्ति अर्थम दीर्घ आयुः विपुल धनधान्य पुत्र पौत्रादि अविच्छिन्न संतंत्तिवृद्धि स्थिर लक्ष्मी कीर्ति लाभ शत्रु पराजय सदभिष्ट चतुर्विध परुषार्थम् श्री महागणपति प्रीति अर्थं इच्छित फ़ल् प्राप्ति अर्थं देव ब्राह्मणाम् चरण सन्निधौ यथा मिलित उपचार द्रव्यैः यथा ज्ञानानुसारेण एवं समयानुसारेण श्री गणेश पूजन अहं करिष्ये
दो हाथ जोड़ के भगवान गणेश और सिद्धि बुद्धि का ध्यान करे
॥ ध्यानम् ॥
ह्रीं विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय॥
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥१॥
ह्रीं श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणै:
पूजितं श्वेतगन्धैः,
क्षीराब्धौ रत्नदीपै:सुरतरविमले
रत्नसिंहासनस्थम् ।
दोर्भि: पाशांकुशेष्टाभयधृतिविशदं
चंद्रमौलिं त्रिनेत्रम् ।ध्यायेच्छान्त्यर्थमीशं
गणपतिममलं श्री समेतं प्रसन्नम् ॥१॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः ध्यानं सम꠶। गन्धपुष्पं सम꠶।
हाथ में अक्षत लेकर भगवान गणेश और सिद्धि बुद्धि का आवाहन (भगवान को आप बुलाए आप आइए और स्थान ग्रहण करीये)
॥ आवाहनम् ॥
ह्रीं हे हेरंब त्वमेह्येहि
अम्बिका त्र्यंबकात्मज।
सिद्धिबुद्धिपते त्र्यक्ष
लक्षलाभपितः प्रभो ॥१॥
नागास्य नागहार त्वं
गणराज चतुर्भुज।
भूषितःस्वायुधैर्दिव्यैः
पाशां कुश परश्वधैः ॥२॥
ह्रीं आवाहयामि पूजार्थं
रक्षार्थं च मम कर्तोः।
इहागत्य गृहाण त्वं
प्रजां क्रतुं च रक्ष मे ॥३॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः आवाहनम् सम꠶।
भगवान के चरणों में अक्षत रख दीजिए.
हाथ में अक्षत लेकर भगवान गणेश और सिद्धि बुद्धि की प्रतिष्ठा का भाव करे.
꠱ प्रतिष्ठापनम् ꠱
ह्रीं प्रतिष्ठा सर्वदेवानाम् मित्रावरुण निर्मिता ।
प्रतिष्ठान्ते करोम्यत्र मण्डले दैवतैः सह ꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः सुप्रतिष्ठिताः वरदाः भवत् ।
भगवान के चरणों में अक्षत रख दीजिए.
हाथ में अक्षत लेकर भगवान गणेश और सिद्धि बुद्धि को आसन पर बिठाने का भाव करे.
॥ आसनम् ॥
ह्रीं रम्यं सुशोभनं दिव्यं सर्व सौख्यकरं शुभम् ।
आसनं च मया दतं गृहाण गणनायक ॥१॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः आसनम् सम꠶।
भगवान के चरणों में अक्षत रख दीजिए.
हाथ में अक्षत लेकर भगवान गणेश और सिद्धि बुद्धि को आसन पर बिठाने का भाव करे.
आचमनी में (चमच्च में )जल लेकर भगवान गणेश और सिद्धि बुद्धि को चरण धो ने का भाव करे.
॥ पाद्यं ॥
ह्रीं उष्णोदकं निर्मलं च सर्वसौगन्ध्य संयुतम् ।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥१॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः पाद्यं सम꠶।
आचमनी का जल भगवान को अर्पण करे.
आचमनी में (चमच्च में )जल लेकर इस में पुष्प और रौली रखिये फिर भगवान गणेश और सिद्धि बुद्धि के चरणों में अर्घ्य देने का भाव करे.
॥ अर्घ्यम् ॥
ह्रीं लब्धपात्रे स्थितं तोयं गन्धपुष्पफ़लान्वितम् ।
सहिरण्यं मया दतं गृहाण गणनायक ॥१॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः अर्घ्यम् सम꠶।
आचमनी का अर्घ्य भगवान को अर्पण करे.
आचमनी में (चमच्च में )जल लेकर इस में फिर भगवान गणेश और सिद्धि बुद्धि के चरणों में आचमन देने का भाव करे.
॥ आचमनम् ॥
ह्रीं सर्वतीर्थं समायुक्तं सुगन्धि निर्मलं जलम् ।
आचम्यार्थं मया दतं गृहाण गणनायक ॥ १॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः आचमनीयं सम꠶।
आचमनी का जल भगवान को अर्पण करे.
आचमनी में (चमच्च में )जल लेकर इस में फिर भगवान गणेश और सिद्धि बुद्धि के चरणों में स्नान कराने का भाव करे.
॥ स्नानम् ॥
ह्रीं गङ्गा सरस्वती रेवा पयोष्णी नर्मदा जलैः ।
स्नापितोऽसि मया देव ह्रतः शान्तिं प्रयछ मे ꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः स्नानम् सम꠶।
आचमनी का जल भगवान को स्नान कराने के लिए अर्पण करे.
(पंचामृत इन पांच चीजो से बनता है.ये अमृत है – दूध- दही- घी(घृत)-मध(शहद)-शर्करा(साकर))
एक चमच्च पंचामृत लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
꠱ पञ्चामृत ꠱
ह्रीं पयोदधि घृतं चैव मधु च शर्करायुतम् ।
पञ्चामृत मया नीतं स्नानार्थं प्रतिगृह्यताम् ॥
ह्रीं श्री सिद्धि बुद्धि सहित महागणपतेयनमः पञ्चामृतेन सम꠶।
꠱ पृथक् -पृथक् – पयः ꠱
एक चमच्च पयः लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥१॥
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः पयःस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ दधि ꠱
एक चमच्च दधि लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मयादेव स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः दधिस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ घृतम् ꠱
एक चमच्च घृत (घी) लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं नवनीत समुतपन्नं सर्वसंतोषकारकम् ।
घृत तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः घृतस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ मधु ꠱
एक चमच्च शहद(मध) लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं तरुपुष्पं समुद्भूतम सुस्वादु मधुरं मधु ।
तेजपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः मधुस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ शर्करा ꠱
एक चमच्च साकर(शर्करा) लेकर भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं इक्षुसार समुद्भूता शर्करापुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः शर्करास्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ गन्धोदक ꠱
एक चमच्च में जल लेकर इस में गंध रखे भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं मलयाचल संभूतं चन्दनागरुकेशरम् ।
चन्दनं च मया दत्तं स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः गन्धोदकस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ उद्वर्तन ꠱
एक चमच्च जल लेकर इसमें थोड़ी हल्दी रखे भगवान सि.बु.स.गणेश को अर्पण करने का भाव करे.
ह्रीं नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम् ।
उद्वर्तनं मया दतं स्नानार्थं प्रतिगृह्यताम् ॥१꠱
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः उद्वर्तनस्नानम् सम꠶ शुद्धोदकस्नानं सम꠶ आचमनीयं सम꠶।
꠱ हस्तेजलमादाय ꠱
अब चमच्च भरके जल लेना है.(फिर निचे दिए गए संकल्प को बोलना है)
अनेन पन्चामृतादि स्नानाङ्ग्भूत पूजनेन आवाहित देवताः प्रियन्ताम् न मम ।अब ये जल आपको छोड़ देना है.
꠱ पूर्वपूजनम् ꠱
अब आपको हाथ में पुष्प और चावल(अक्षत) लेकर भगवान के चरणों में रख देना है.
ह्रीं श्री सिद्धिबुद्धिसहितमहागणपतेय नमः पूर्वपूजार्थे सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम꠶ नमस्करोमि। भगवान के चरणों में रखा गया पुष्प आपको वहा से लेना है और उनकी सुवास लेकर बाएं तरफ छोड़ दे, फिर दूसरा(नूतन) पुष्प लेकर सि.बु.स.गणेश के चरणों में अर्पित करे.
फिर सि.बु.स.गणेश के उपर निचे दिए गए मंत्रो के द्वारा अभिषेक करे (अभिषेक विशेष परंपरा से करते है)
जल से भगवान को अभिषेक करे.निचे दिए गए स्तोत्र के द्वारा अभिषेक करे.
॥ श्रीगणपत्यथर्वशीर्षम् ॥
॥ श्रीगणेशाय नमः ॥
शांति मंत्राः
ॐ भद्रं कर्णेभिः श्रृणुयाम देवा ।भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।व्यशेम देवहितं यदायुः ।ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पुषा विश्वैवेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नोबृहस्पतिर्दधातु ।ॐ शान्तिः शान्तिः शान्तिः ।अथर्वशीर्षॐ नमस्ते गणपतये ।त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं कर्तासि ।त्वमेव केवलं धर्तासि ।त्वमेव केवलं हर्तासि ।त्वमेव सर्वं खल्विदं ब्रह्मासि ।त्वं साक्षादात्मासि नित्यम् ॥१॥ऋतं वच्मि ।सत्यं वच्मि ॥२॥अव त्वं माम् ।अव वक्तारम् ।अव श्रोतारम् ।अव दातारम् ।अव धातारम् ।अवानूचानमवशिष्यम् |अव पश्चात्तात् ।अव पुरस्तात् ।अवोत्तरात्तात् ।अव दक्षिणात्तात् ।अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।सर्वतो मां पाहि पाहि समन्तात् ॥३॥
त्वं वाङ्मयस्त्वं चिन्मयः ।त्वमानन्दमयस्त्वं ब्रह्ममयः ।त्वं सच्चिदानन्दाद्वितीयोऽसि ।त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति ॥सर्वं जगदिदं त्वयि लयमेष्यति ।सर्वं जगदिदं त्वयि प्रत्येति ।त्वं भूमिरापोऽनलोऽनिलो नभः ।त्वं चत्वारि वाक्पदानि ॥५॥त्वं गुणत्रयातीतः ।त्वं देहत्रयातीतः ।त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥६॥गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।अनुस्वारः परतरः ।अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।एतत्तव मनुस्वरूपम् ।गकारः पूर्वरूपम् ।
अकारो मध्यमरूपम् ।अनुस्वारःश्चान्त्यरूपम् ।बिन्दुरूत्तररूपम् ।नादः सन्धानम् ।संहितासन्धिः ।सैषागणेशविद्या ।गणकऋषिः ।निचृद्गायत्री छन्दः ।
गणपतिर्देवता ।ॐ गं गणपतये नमः ॥७॥एकदन्ताय विद्महे ।वक्रतुण्डाय धीमहि ।तन्नो दन्ती प्रचोदयात् ॥८॥एकदन्तंचतुर्हस्तंपाशमङ्कुशधारिणम् ।रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ।आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ।एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥नमो वातप्रतये ।नमो गणपतये ।नमः प्रमथपतये ।नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिनेशिवसुताय श्रीवरदमूर्तये नमः ॥१०॥
फलश्रुती
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वतः सुखमेधते । स सर्वविघ्नैर्न बाध्यते ।
स पंचमहापापात् प्रमुच्यते ।सायमधीयानो दिवसकृतं पापं नाशयति ।प्रातरधीयानो रात्रिकृतं पापं नाशयति ।सायंप्रातः प्रयुंजानो अपापो भवति ।सर्वत्राधीयानोऽपविघ्नोभवति ।
धर्मार्थकाममोक्षं च विन्दति ।इदमथर्वशीर्षमशिष्याय न देयम् ।यो यदि मोहाद् दास्यति स पापीयान् भवति ।सहस्त्रावर्तनात् ।यं यं काममधीते तं तमनेन साधयेत् ॥११॥अनेन गणपतिमभिषिञ्चति ।स वाग्मी भवति ।चतुर्थ्यामनश्वन्जपति ।स विद्यावान भवति ।इत्यथर्वणवाक्यम् ।ब्रह्माद्यचरणं विद्यात् ।न बिभेति कदाचनेति ॥१२॥यो दूर्वाङ्कुरैर्यजति ।स वैश्रवणोपमो भवति ।यो लाजैर्यजति ।स यशोवान् भवति ।स मेधावान् भवति ।यो मोदकसहस्त्रेण यजति ।स वांछितफलमवाप्नोति ।यः साज्यसमिद्भिर्यजति ।स सर्वं लभते स सर्वं लभते ॥१३॥अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा ।सिद्धमन्त्रो भवति ।महाविघ्नात् प्रमुच्यते ।महादोषात प्रमुच्यते ।महापापात् प्रमुच्यते ।स सर्वविद् भवति स सर्वविद् भवति ।य एवं वेद ।इत्युपनिषत् ॥१४॥
नारद उवाच,
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थ सिद्धये॥१॥
प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम॥॥२॥
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्॥३॥
नवमं भालचन्द्रं च दशमं तु गजाननम्।
एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥
द्वादशैतानि नामामि त्रिसन्ध्यं य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥५॥
विद्यार्थी लभते विद्यां, धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्-मोक्षार्थी लभते गतिम्॥६॥
जपेद गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशय:॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:॥८॥
॥इति श्रीनारदपुराणे श्रीसंकटनाशन
गणेशस्तोत्रं सम्पूर्णम॥॥ ह्रीं अमृताभिषेकोऽस्तु ह्रीं सिद्धि꠶ अभिषेकस्नानं सम꠶꠱
꠱ शुद्धोदक ꠱
एक चमच्च जल लेकर भगवान सि.बु.स.गणेश को अर्पण करे. ह्रीं कावेरी नर्मदावेणी तुङ्गभद्रा सरस्वती ।
गङ्गा च यमुना तोयं मया स्नानार्थंमर्पितम् ꠱
ह्रीं श्री सिद्धि꠶ शुद्धोदकस्नानं सम꠶
꠱ वस्त्रम् ꠱
भगवान सि.बु.स.गणेश को वस्त्र-उपवस्त्र(लाल रंग की मौली)अर्पण करे.
ह्रीं सर्वभूषाधिके सौम्ये लोकलज्जा निवारणे ।
मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ꠱
ह्रीं श्री सिद्धि꠶ वस्त्रान्ते-उपवस्त्रान्ते आचमनीय जलं सम꠶
ह्रीं श्री सिद्धि꠶ वस्त्रम् सम꠶
꠱ यज्ञोपवीतम् ꠱
भगवान सि.बु.स.गणेश को जनेऊ चढ़ाए.
ह्रीं नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दतं गृहाण गणनायक ꠱
ह्रीं श्री सिद्धि꠶ यज्ञोपवीतम् सम꠶ यज्ञोपवीतान्ते आचमनियं समर्पयामि(चमच्च भरके जल छोड़ देना है)
꠱ गन्धम् ꠱
भगवान सि.बु.स.गणेश को तिलक करना है.
ह्रीं श्रीखंण्डं चन्दनं दिव्यं गंन्धाढयं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ꠱
ह्रीं श्री सिद्धि꠶ गन्धम् सम꠶
꠱ कुंकुमम् ꠱
भगवान सि.बु.स.गणेश को कुंकुमम् अर्पण करना है.
ह्रीं कुंकुमं कामनादिव्यं कामिन्या कामसंभवम् ।
कुंकुमेनार्चितो देव प्रियताम् परमेश्वर ꠱
ह्रीं श्री सिद्धि꠶ कुंकुमम् सम꠶
꠱ अक्षतान् ꠱
भगवान सि.बु.स.गणेश को अक्षत अर्पण करना है.
ह्रीं अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्तया गृहाण गणनायक ꠱
ह्रीं श्री सिद्धि꠶ अक्षतान् सम꠶
꠱ पुष्पाणि ꠱
भगवान सि.बु.स.गणेश को पुष्प अर्पण करना है.
ह्रीं माल्यादीनि सुगन्धीनि माल्यादीनि वै प्रभो ।
मयाऽऽह्रतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ꠱
ह्रीं श्री सिद्धि꠶ पुष्पाणि सम꠶
꠱ दुर्वा꠱
भगवान सि.बु.स.गणेश को दूर्वा अर्पण करना है.
ह्रीं दुर्वा ह्यमृतसंपन्ना शतमूला शताङ्कुरा ।
शतम् पातकसंहन्त्री शतमायुष्यवर्द्धिनि ꠱
ह्रीं श्री सिद्धि꠶ दुर्वान्कुरान सम꠶
꠱꠱अथांगपूजा ꠱꠱
बाये हाथ में गंध पात्र (रोलि का पात्र)लेकर भगवान सि.बु.स.गणेश के सभी अंगो की पूजा करनी है. (जब आप पूजयामि शब्द बोले तब भगवान को गंध का छीटा जो अंग बताया है इसके उपर चढ़ाए)
वामहस्ते गन्धपात्रंगृहीत्वा दक्षिणेनार्चयेत ।
ह्रीं गणेशाय नमः पादौ पूजियामि ह्रीं विघ्नराजाय नमः जानुनी पूजयामि आखुवाहनाय नमः ऊरु पूजयामि ह्रीं रंबाय नमः कटी पूजयामि ह्रीं कामारिसूनवे नमः नाभिं पूजयामि ह्रीं लंबोदराय नमः उदरं पूजयामि ह्रीं गौरीसुताय नमः स्तनौ पूजयामि ह्रीं गणनायकाय नमः ह्रदयं पूजयामि स्थूलकंठाय नमः कंठं पूजयामि स्कन्दाग्रजाय नमः स्कन्धौ पूजयामि पाशहस्ताय नमः हस्तौ पूजयामि गजवक्त्राय नमः वक्त्रं पूजयामि विघ्नहर्त्रै नमः ललाटं पूजयामि सर्वेश्वराय नमः शिरः पूजयामि
श्री महगणाधिपतेये नमः सर्वाङ्गं पूजयामि
अब आपको हाथ में अक्षत लेकर नमः शब्द जब आए तब भगवान सि.बु.स.गणेश के चरणों में अक्षत रखे.
꠱अथावरणपूजा꠱
(अक्षतैः पूजयेत) ह्रीं सुमुखाय नमः। एकदन्ताय नमः। कपिलाय नमः।गजकर्णाय नमः।लंबोदराय नमः। विकटाय नमः। विघ्ननाशकाय नमः। विनायकाय नमः ।धूम्रकेतवे नमः। गणाध्यक्षाय नमः। भालचन्द्राय नमः। गजाननाय नमः। लक्षाय नमः। लाभाय नमः। सिद्धैय नमः। बुद्धयै नमः। आखवे नमः।
꠱꠱ गन्धपुष्पं गृहीत्वा ꠱꠱
पुष्प को हाथ में लेकर गंध पात्र में थोडा डुबोकर फिर भगवान सि.बु.स.गणेश के चरणों में रखे
ह्रीं अभिष्ट सिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं समस्तावर्णार्चनम् .꠱
समस्तावर्णार्चनदेवताभ्यो नमः सर्वोपचारार्थे गन्धपुष्पम् समर्पयामि(गंध पुष्प भगवान को अर्पित करे)
꠱꠱ सौभाग्यपरिमलद्रव्याणि꠱
अबीर गुलाल सिन्धुर हल्दी चूर्ण भगवान को अर्पित करे.꠱
ह्रीं अबीलमायुषोवृद्धि र्गुलालं प्रीतिवर्धनम् ।
सिन्दूरेण समायुक्तं हरिद्रांलक्ष्मीवर्धनं ꠱
ह्रीं श्री सिद्धि꠶ सौभाग्यपरिमलद्रव्याणि सम꠶
꠱ ꠱धूपम् ꠱꠱
अगरबती का धूप करे
ह्रीं वनस्पतिरसोत्पन्नो गंधाढयो गंध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रति गृह्यताम् ꠱
ह्रीं श्री सिद्धि꠶ धूपं सम꠶
꠱꠱ दीपम्꠱ ꠱
भगवान को दीप अर्पित करे.
ह्रीं साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्ये तिमिरापहम् ꠱
ह्रीं श्री सिद्धि꠶ दीपम् सम꠶
꠱꠱ नैवेद्यम् ꠱꠱
भगवान को भोग लगाए(एक चमच्च जल लेकर)निचे का मंत्र बोलकर जल छोड़ देना है फिर ॐ गं गणपतये नमः ये मंत्र बोलकर जो भोग लगाया है इसके उपर जल छिटकना है.
ह्रीं शर्कराखण्डखाद्यानि दधिक्षिरघृतानि च ।
आहारं भक्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यताम् ꠱
ह्रीं श्री सिद्धि꠶ नैवेद्यम् सम꠶
एक चमच्च भरकर जल छोड़ देना है.
(मूलमन्त्रेण संप्रोक्ष्य धेनुमुद्रया अमृतीकृत्य ग्रासमुद्राः प्रदर्शयेत् )
ह्रीं प्राणाय स्वाहा। अपानाय स्वाहा। व्यानाय स्वाहा। उदानाय स्वाहा। समानाय स्वाहा। ह्रीं नैवेद्यं निवेदयामि (तीन चमच्च लेकर छोड़ देना है) पूर्वो पोशनं सम꠶। नैवेद्यं मध्येपानियं सम꠶। उत्तरापोशनं सम꠶। हस्तप्रक्षालनम् सम꠶। आचमनीयं सम꠶। करोद्वर्तनार्थे गन्धं सम꠶।
रौली के छीटे भगवान को लगाने है.
꠱ ꠱पूगी फ़लताम्बूलं꠱ ꠱
सोपारी और पान भगवान को अर्पण करना है.
ह्रीं पूगीफ़लं महद्दिव्यं नागवलीदलैयुर्तम् ।
एलादी चूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यतां ꠱
ह्रीं श्री सिद्धि꠶ पूगी फ़लताम्बूलं सम꠶
꠱ ꠱दक्षिणाम्꠱ ꠱
कुछ भेट भगवान को अर्पित करनी है.
ह्रीं हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनंतपुण्यफ़लदमतः शान्ति प्रयच्छ मे꠱
ह्रीं श्री सिद्धि꠶ दक्षिणाम् सम꠶
꠱ततो नीराजनम् – ꠱
भगवान की आरती करनी है.
जय गणेश जय गणेश जय गणेश देवा।
माता जाकी पार्वती पिता महादेवा,
एकदन्त दयावन्त चारभुजाधारी ,
माथे पर तिलक सोहे, मूसे की सवारी,
पान चढ़े फूल चढ़े और चढ़े मेवा,
लड्डुअन का भोग लगे, सन्त करे सेवा। जय गणेश…..
अँधे को आँख देत,कोढ़िन को काया
बाँझन को पुत्र देत, निर्धन को माया
सूर श्याम शरण आए, सफल कीजे सेवा।
जय गणेश ………
꠱गणेशाची मराठी आरती ꠱
सुख करता दुखहर्ता, वार्ता विघ्नाची
नूर्वी पूर्वी प्रेम कृपा जयाची
सर्वांगी सुन्दर उटी शेंदु राची
कंठी झलके माल मुकताफळांची
जय देव जय देव, जय मंगल मूर्ति
दर्शनमात्रे मनःकमाना पूर्ति
जय देव जय देव
रत्नखचित फरा तुझ गौरीकुमरा
चंदनाची उटी कुमकुम केशरा
हीरे जडित मुकुट शोभतो बरा
रुन्झुनती नूपुरे चरनी घागरिया
जय देव जय देव, जय मंगल मूर्ति
दर्शनमात्रे मनःकमाना पूर्ति
जय देव जय देव
लम्बोदर पीताम्बर फनिवर वंदना
सरल सोंड वक्रतुंडा त्रिनयना
दास रामाचा वाट पाहे सदना
संकटी पावावे निर्वाणी रक्षावे सुरवर वंदना
जय देव जय देव, जय मंगल मूर्ति
दर्शनमात्रे मनःकमाना पूर्ति
जय देव जय देव
शेंदुर लाल चढायो अच्छा गजमुख को
दोन्दिल लाल बिराजे सूत गौरिहर को
हाथ लिए गुड लड्डू साई सुरवर को
महिमा कहे ना जाय लागत हूँ पद को
जय जय जय जय जय
जय जय जी गणराज विद्यासुखदाता
धन्य तुम्हारो दर्शन मेरा मत रमता
जय देव जय देव
अष्ट सिधि दासी संकट को बैरी
विघन विनाशन मंगल मूरत अधिकारी
कोटि सूरज प्रकाश ऐसे छबी तेरी
गंडस्थल मद्मस्तक झूल शशि बहरी
जय जय जय जय जय
जय जय जी गणराज विद्यासुखदाता
धन्य तुम्हारो दर्शन मेरा मत रमता
जय देव जय देव
भावभगत से कोई शरणागत आवे
संतति संपत्ति सबही भरपूर पावे
ऐसे तुम महाराज मोको अति भावे
गोसावीनंदन निशिदिन गुण गावे
जय जय जी गणराज विद्यासुखदाता
धन्य तुम्हारो दर्शन मेरा मत रमता
जय देव जय देव
ह्रीं श्री सिद्धि꠶ आरार्तिक्यं सम꠶
“मंगलम भगवान ढून्ढ़ी, मंगलम मूषक ध्वज।
मंगलम पार्वती पुत्रो, मंगलाय तनो गणः।।”
अब आप आरती निचे रखिये और आरती की थाली के गोल प्रदक्षिणा कीजिये और पुष्प लेकर आरती के उपर से गोल घुमाके भगवान के चरणों में रख दीजिये और आप आरती लीजिए और सभी भक्तो को आरती दीजिए प्रसाद भी दीजिए.
꠱꠱ मंत्र पुष्पाञ्जलि ꠱꠱
हाथ में पुष्प लेकर भगवान को अर्पित करे.
ह्रीं नानासुगन्धि पुष्पाणि ऋतुद्कालोद भवानी च ।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्वर ꠱
ह्रीं श्री सिद्धि꠶ मंत्र पुष्पाञ्जलि सम꠶
꠱꠱ विशेषार्घ्यः ꠱꠱
भगवान को फल अर्पित करे.
ह्रीं रक्ष रक्ष गणाध्यक्ष त्रैलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात।
द्वैमातुर कृपा सिन्धो षाण्मातुरग्रजप्रभो।
वरद त्वं वरं देहि वाञ्छितं वाञ्छितार्थंद꠱
ह्रीं फ़लेन् फ़लितम् तोयं तेन मे ।
सफ़लाऽवाप्तिर भवेत जन्मनिजन्मनि꠱
ह्रीं श्री सिद्धि꠶ विशेषार्घ्यं सम꠶
꠱꠱ प्रदक्षिणाम् ꠱ ꠱
दो हाथो से गोल प्रदक्षिणा कीजिए.
ह्रीं यानि कानि च पापानि जन्मांतर कृतानि च ।
तानि सर्वाणि नश्यंति प्रदक्षिणपदे – पदे ꠱
ह्रीं श्री सिद्धि꠶ प्रदक्षिणाम् सम꠶
꠱ ꠱प्रार्थना ꠱
दो हाथ जोड़कर भगवान को प्रार्थना कीजिए
ह्रीं विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय॥
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥१॥
गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकम् नमामि विघ्नेश्वरपादपङ्कजम् (गज-आननम् भूत-गण-अधिसेवितम् कपित्थ-जम्बू-फल-चारु-भक्षणम् उमा-सुतम् शोक-विनाश-कारकम् नमामि विघ्नेश्वर-पाद-पङ्कजम् ।)
हाथी के मुख वाले, भूत-गणों के द्वारा सेवित, कैथ एवं जामुन का चाव से भक्षण करने वाले, शोक (दुःख या कष्ट) के नाशकर्ता, उमा-पुत्र का मैं नमन करता हूं, विघ्नों के नियंता श्री गणेश के चरण-कमलों के प्रति मेरा प्रणमन । भूतगण = भगवान् शिव के अनुचर । गणेश को मोदकप्रिय (लड्डुओं के शौकीन) तो कहा ही जाता है, इस श्लोक से प्रतीत होता है कि उन्हें कैथ तथा जामुन के फल भी प्रिय हैं ।
ह्रीं श्री सिद्धि꠶ प्रार्थनापूर्वक नमस्कारः
꠱꠱ क्षमापनं ꠱꠱
कोई पूजा में क्षति रह गई हो तो प्रभु माफ़ करना.
ह्रीं आवाहनं न जानामि न जानामि विसर्जनम |
पूजां चैव न जानामि क्षमस्व परमेश्वर ||
ह्रीं मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर |
यत्पूजितं मया देवं परिपूर्ण तदस्तु में ||
ह्रीं श्री सिद्धि꠶ क्षमापनं
में आपके चरणों का सेवक ये पूजा का फल आपके चरणों में अर्पित करता हू अगर मैने आपकी पूजा भाव- भक्ति पूर्वक की है तो प्रभु में धन्यता मानुंगा.
आपका सेवक ………. ꠶
꠱जय गणेश꠱
꠱अस्तु꠱